||Sundarakanda ||

|| Sarga 18||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड्.
अथ अष्टादशस्सर्गः

श्लो॥तथा विप्रेक्षमानस्य वनं पुष्पित पादपं।
विचिन्वतश्च वैदेहीं किंचित् शेषा निशाऽभवत्॥1||

स॥ पुष्पित पादपं विप्रेक्षमानस्य वैदेहीं विचिन्वतः च तथा निशा किंचित् शेषा अभवत् ।

While seeing those trees laden with flowers and searching for Sita, very little of the night was left.

श्लो॥षडङ्गवेदविदुषां क्रतुप्रवरयाजिनां।
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्॥2||
अथमङ्गळवादित्रैः शब्दैः श्रोत्रमनोहरैः।
प्राबुध्यत महाबाहुः दशग्रीवो महाबलः॥3||

स॥ विरात्रे सः षडंगवेदविदुषां क्रतुप्रवरयाजिनां ब्रह्म रक्षसाम् ब्रह्मघोषां च शुश्राव॥ अथ महाबाहुः महाबलः दशग्रीवः श्रुतिमनोहरः मंगळवादित्र शब्दैः प्राबुध्यत ॥

At the end of the night, he heard sound of Vedas from those Brahmins among Rakshasas who are experts in the Vedas and the six auxiliary parts there of and who are also experts on performing sacrificial ceremonies. Then the powerful ten headed one with powerful arms was awakened by the delightful sounds of auspicious musical instruments.

श्लो॥विबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान्।
स्रस्तमाल्याम्बरधरो वैदेहीम् अन्वचिन्तयत्॥4||
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटाः।
न स तं राक्षसं कामं शशाकात्मनि गूहितम्॥5||

स॥ प्रतापवान् राक्षसेन्द्रः यथाकालं विबुध्य स्रस्तमाल्यांबरधरः वैदेहीं अन्वचिंतयत् ॥ तस्यां मदनेन भृशम् नियुक्तः मदोत्कटः सः राक्षसः तं कामंआत्मनि गुहितुं न शशाक॥

The valorous king of Rakshasas waking up as per time with disarranged garlands and garments thought about Vaidehi. Gripped on account of his exceedingly high passion for her and overwhelmed with that passion, the Rakshasa could not hide his passion within himself.

श्लो॥स सर्वाभरणैर्युक्तो बिभ्रत् श्रियमनुत्तमां।
तां नगैर्बहुभि र्जुष्टां सर्वपुष्पफलोपगैः॥6||
वृतां पुष्करिणीभिश्चनानापुष्पोपशोभिताम्।
सदामदैश्च विहगैः विचित्रां परमाद्भुतम्॥7||

स॥सः सर्वाभरणयुक्तः अनुत्तमाम् श्रियं बिभ्रत् सर्वपुष्पफलोपभैः बहुभिः नगैः जुष्टाम् तां॥पुष्करणीभिः वृत्तां नानापुष्पोपशोभिताम् सदा मदैश्च विहगैः विचित्रां परमाद्भुतम्॥

Adorned with all excellent ornaments glowing with splendor, he went to (that grove) full of trees filled with all kinds of flowers and fruits. The grove was full of ponds shining with variety of flowers as also with colorful birds which are excited and looked wonderful.

श्लो॥ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः।
वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः॥8||
नानामृग गणाकीर्णम् फलैः प्रपतितैर्वृताम्।
अशोकवनिकामेव प्राविशत् संततद्रुमाम्॥9||

स॥ मणिकांचन तोरणाः दृष्टिमनोहरैः वीथीः संप्रेक्षमाणः च विविधैः इहामृगैः च जुष्टां नानामृगगणाकीर्णं प्रपितैः फलैः वृतां संततद्रुमाम् अशोकवनिकां एव प्राविशत् ॥

He entered the Ashoka grove observing path ways, gateways ornamented with gold and gems,as well as the pleasant to look at the grove filled with trees, occupied by several wolves, filled with variety of herds of animals , with fruits fallen from the trees.

श्लो॥अङ्गनाशतमात्रंतु तं व्रजंत मनुव्रजत्।
महेन्द्रमिव पौलस्त्यं देवगंधर्वयोषितः॥10||
दीपिकाः काञ्चनीः काश्चित् जगृहुः तत्र योषितः।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः॥11||
काञ्चनैरपि भृंगारैः जह्रुः सलिलमग्रतः॥
मण्डलाग्रान् बृसींचैव गृह्याऽन्याः पृष्ठतो ययुः॥12||
काचित् रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥13||

स॥व्रजन्तं तं पौलस्त्यं शतमात्रं अंगनाः महेंद्रं देवगंधर्वयोषिताः इव अनुव्रजत्॥ तत्र काश्चित् योषितः कांचनीः दीपिकाः जगृहु। अपराः तालवृंतानि जगृहु। (अपराः) व्यालव्यजन हस्ताः च॥अग्रतः कांचनैः भृंगारैः सलिलं जहृः ।अन्याः मंडलाग्राः बृसीः च अपि गृह्य पृष्टतः ययुः ॥ काचित् दक्षिणा भामिनी रत्नमयीं पूर्णं पानस्य स्थलीं दक्षिणेनैव पाणिना जग्राह॥

That wandering son of Pulastya was followed by hundred women, like Indra was followed by Deva Gandharva women. There some women carried golden lamps. Others carried palm leaf fans. Some others held fans made of hair from Yak's tail. Some carried water in golden picthers in the front. Others in the back carried circular seats as they moved. One courteous women carried a gem studded jar filled with wine in her right hand only.

श्लो॥राजहंस प्रतीकाशं छत्रं पूर्णशशिप्रभम्।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ॥14||

स॥ अपरा राजहंस प्रतीकाशं पूर्णशशिप्रभं सौवर्णदंडं छत्रं गृहीत्वा पृष्टतः ययौ॥

Another carried a umbrella with golden handle resembling a royal swan and bright like a full moon.

श्लो॥निद्रामद परीताक्ष्यो रावणस्योत्तमाः स्त्रियः।
अनुजग्मुः पतिं वीरं घनं विद्युल्लताइव॥15||
व्याविद्धहारकेयूराः समा मृदितवर्णकाः।
समागळित केशान्ताः सस्वेद वदनास्तथा॥16||

स॥ निद्रा मद परीताक्ष्यः रावणस्य उत्तमाः स्त्रियः विद्युल्लताः घनमिव वीरं पतिं अनुजग्मुः॥ व्याविद्धहारकेयूराः समामृदितवर्णिकाः समागलित केशांताः तथा सस्वेद वदनाः (तं रावणं अनुजग्मुः)

With eyes dizzy with intoxication and sleep, Ravana's wives followed the heroic husband, like lightning followed the dark clouds. With disarrayed necklaces , and smudged sandal paste and other unguents on the body, loosened hair, also with sweat on their faces (his wives followed him)

श्लो॥घूर्णंत्यो मदशेषेण निद्रया च शुभाननाः।
स्वेदक्लिष्टाङ्ग कुसुमाः सुमाल्याकुलमूर्थजाः॥17||
प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः।
बहुमानाच्च कामाच्च प्रिया भार्या स्तमन्वयुः॥18||

स॥ मदशेषेण निद्रया च घूर्णन्त्यः स्वेदक्लिष्टांग कुसुमाः सुमाल्याकुलमूर्धजाः शुभाननाः (तं तावणं अनुजग्मुः)॥मदिरलोचनाः प्रियाः भार्याः नार्याः बहुमानाच्च कामाच्च प्यांतं तं नैऋतपतिं अन्वयुः॥

The wives of Ravana adorned with beautiful flowers in their hair followed him, with garlands of wilted flowers due to sweat from their limbs. They were moving to and from being dizzy with left over intoxication as well as due to left over sleep. The drunken eyed dear wives, and other ladies followed the king of Rakshasas due to high regards and due to passion.

श्लो॥स च कामपराधीनः पति स्तासां महाबलः।
सीतासक्त मना मम्दो मदाञ्चितगति र्बभौ॥19||
ततः काञ्चीनिनादं च नूपुराणां निस्स्वनम्।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः॥20||

स॥ तासां पतिः महाबलः कामपराधीनः सीतासक्तमनाः सः च मंदः मदांचितगतिः बभौ॥ ततः मारुतात्मजः सः कपिः परमस्त्रीणां कांचीनिनादं नूपुराणां च निःस्वनं शुश्राव॥

Their husband, the powerful and dull Ravana who is under the control of passion, with a mind lost on Sita and walked slowly .Then the son of wind god that Vanara heard the sounds of golden girdles and small bells of their anklets.

श्लो॥ तं चा प्रतिमकर्माणं अचिन्त्यबलपौरुषम्।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥21||
दीपिकाभिरनेकाभिः समन्तादवभासितम्।
गन्धतैलावसिक्ताभिः ध्रियमाणाभिरग्रतः॥22||
कामदर्पमदैर्युतं जिह्मताम्रायतेक्षणम्।
समक्षमिव कंदर्पं अपविद्धशरासनम्॥23||
मथितामृतफेनाभ मरजो वस्त्रमुत्तमम्।
सलील मनुकर्षंतं विमुक्तं सक्त मंगदे ॥24||

स॥ कपिः हनुमान् अप्रतिमकर्मणां द्वारदेशं अनुप्राप्तं तं अचिन्त्यबलपौरुषम् ( रावणं) च ददर्श॥ गन्धतैलावसिक्ताभिः अग्रतः ध्रियमाणाभिः अनेकाभिः दीपिकाभिः समन्तात् अवभासितम्॥ कामदर्पमदैः युक्तं जिह्मताम्रायतेक्षणम् अपविद्ढशरासनम् समक्षं कंदर्पं इव॥मथितामृतफेनाभं अरजः विमुक्तं अंगदे सक्तं उत्तमं वस्त्रं सलीलं अनुकर्षंतं (तं ददर्श)॥

The Vanara Hanuman , who performed incomparable deeds saw the hero unimaginable strength and valor at the entrance. He (Ravana) was shining in the light of the fragrant oil lamps held in the front by many every where. Endowed with lust pride and intoxication, possessed of long hot red eyes with his quiver and arrows set aside, he looked like Manmatha himself. Without any dust, looking like foam of the churned nectar, the upper cloth which was stuck in his armlet was sportively dragged.

श्लो॥ तं पत्रविटपे लीनः पत्त्रपुष्पघनावृतः।
समीपमिव संक्रान्तं निध्यातु मुपचक्रमे॥25||
अवेक्षमाणस्तु ततो ददर्श कपिकुङ्जरः ।
रूपयौवनसंपन्ना रावणस्य वरस्त्रियः॥26||

स॥पत्रविटपे लीनः पत्रपुष्पघनावृतः समीपं सक्रांतं मिव तं निध्यातुं उपचक्रमे॥ ततः कपिकुंजरः अवेक्षमाणः रावणस्य रूपयौवनसंपन्नाः रावणस्य वरस्त्रियः ददर्श॥

Hidden in the leaves on the branch covered with leaves and flowers Hanuman scaned the identity of the one coming nearer. Then the best of Vanaras looking carefully saw the Ravana's chief women who are young and beautiful.

श्लो॥ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः।
तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्॥27||
क्षीबो विचित्राभरणः शंङ्कुकर्णो महाबलः।
तेन विश्रवसः पुत्त्रः सदृष्टो राक्षसाधिपः॥28||
वृतः परमनारीभिः ताराभिरिव चन्द्रमाः।
तं ददर्श महातेजाः तेजोवन्तं महाकपिः॥29||

स॥ महायशाः राजा सुरूपाभिः ताभिः परिवृतः मृगद्विजसंघुष्टं तत् प्रमदावनं प्रविष्टः॥ विश्रवसः पुत्रः क्षीबः विचित्राभरणः शंकुकर्णः महाबलः राक्षसाधिपः सः तेन दृष्टः॥ परमनारीभिः वृतः ताराभिः (वृतः) चंद्रमा इव तेजोवंतं तं महातेजाः महाकपिः तं तेजोवंतं ददर्श॥

The famous king surrounded by beautiful charming women entered the grove meant for women which echoed with sounds of beasts and birds. The very powerful son of Visravasa, the king of Rakshasa excited by drinking, wearing wonderful ornaments, with long tapering ears, was seen by him. Surrounded by best of women, looking like the Moon surrounded by stars, the brilliant Hanuman saw that splendid king of Rakshasas.

श्लो॥ रावणोऽयं महाबाहुः इति संचित्य वानरः।
अवप्लुतो महातेजा हनुमान् मारुतात्मजः॥30||
स तथा‍प्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा।
पत्रगुह्यान्तरे सक्तो हानुमान् संवृतोऽभवत्॥31||

स॥ मारुतात्मजःवानरः महातेजाः हनुमान् अयं महाबाहुः रावण इति संचित्य अवप्लुतः ॥तथा उग्रतेजाः सः हनुमान् तस्य तेजसा निर्धूतः पत्रगुह्यांतरे सक्तः संवृतः अभवत्॥

The powerful Hanuman, the son of wind god , thinking that "this one of strong arms is Ravana" came down. Possessed of extraordinary strength Hanuman taken aback by the might of Ravana concealed deep in the leaves remained there.

श्लो॥ स तां असितकेशांतां सुश्रोणीं संहतस्तनीम्।
दिदृक्षु रसितापांगां उपावर्तत रावणः॥32||

स॥ तं असितकेशांतं सुश्रोणिं संहतरत्नीं असितापांगां दिद्रुक्षुः सः रावणः उपावर्तत॥

To look at the dark haired lady , with beautiful hips, plump breasts and dark side glances that Ravana returned to the Ashoka grove.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे अष्टादशस्सर्गः॥

|| ओम् तत् सत् ॥